ShivPuraan in hindi kathaa chepter 18 (श्रीशिवमहापुराण- अठारहवाँ अध्याय: शिव लिग्ड़ की महिमा का वर्णन), page:1
 
। । ॐ नमः शिवाय । ।

श्रीशिवमहापुराण-विद्येश्वरसंहिता: अठारहवाँ अध्याय

बन्धन और मोक्ष का विवेचन, शिव पूजा का उपदेश, लिङ्ग आदि मे शिव पूजन का विधान, भस्म के स्वरुप का निरुपण और महत्त्व, शिव एवं गुरु शब्द की व्युत्पत्ति तथा शिव के भस्मधारण का रहस्य : पृष्ठ 1


ऋष्य ऊचुः
बंधमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम।
सूत उवाच
बंधमोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात्॥१॥
प्रकृत्याद्यष्टबंधेन बद्धो जीवः स उच्यते।
प्रकृत्याद्यष्टबंधेन निर्मुक्तो मुक्त उच्यते॥२॥
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः।
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते॥३॥
प्रकृत्यग्रे ततो बुद्धिरहंकारो गुणात्मकः।
पञ्चतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः॥४॥
प्रकृट्याद्यष्टजो देहो देहजं कर्म उच्यते।
पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः॥५॥
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम्।
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिंद्रियभोगदम्॥६॥
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः।
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते॥७॥
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः।
शरीरत्रयकर्मभ्यां चक्रवद्भ्राम्यते सदा॥८॥
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत्।
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः॥९॥
चक्रकर्ता महेशो हि प्रकृतेः परतोयतः।
पिबति वाथ वमति जीवन्बालो जलं यथा॥१०॥
FACEBOOK COMMENTES
  Share it --

Shri ShivMahaaPuran (Page 1 of 3)
[First][1]  [2] [3][Last]