ॐ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ। अप्सुक्ष dainikpooja2
 
|| वैदिक आरती ||
ॐ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमीमं जुषध्वम्।।
ॐ आ रात्रि पार्थिवँ रजः पितुरप्रायि धामभिः।
दिवः सदाँसि बृहती वितिष्ठस आ त्वेषं वर्तते तमः।।
ॐ इदँहविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त।।
FACEBOOK COMMENTES
    Share it --